दिल्ली संस्कृत अकादम्याः
दिल्ली-संस्कृत-अकादम्यां भवतां/भवतीनाञ्च स्वागतम्|

Delhi Sanskrit Academyसंस्कृतभाषायाः महत्त्वम् अवलोकयन् राष्ट्रस्य  संस्कृतेः सभ्यतायाः भाषायाः साहित्यस्य च संरक्षणं, संवर्द्धनं, प्रचारं, प्रसारं  विकासञ्च उद्दिश्य देशस्य राज्यानां च सर्वकाराः राष्ट्रियाखण्डतायाः भाषाणामेकतायाः  च प्रतीकभूतायाः संस्कृतभाषायाः संरक्षणाय, प्रचाराय प्रसाराय च सुतरां प्रयत्नशीलाः  सन्ति। अनेनैवोद्देश्येन 1987 तमे ख्रीष्टाब्दे दिल्ली-सर्वकारद्वारा  स्वायत्तसंस्थारूपेण दिल्ली-संस्कृत-अकादमी संस्थापिता।
स्थापनान्तरं दिल्ली-संस्कृत-अकादमी  संस्कृतस्य प्रचाराय प्रसाराय च निरन्तरं गतिशीलास्ति।


अकादमी-गीतम् (रजतजयन्तीमुपलक्ष्य गीतम् रचयिता डॉ. जीतराम भट्ट)

लोके वेदज्ञानसाधिका 
भारतीमयी भारतप्रिया विजयते भुवनमण्डलेऽखिले 
दिल्लीसंस्कृताकादमीयम् ।।1।।

छात्रेभ्यो यच्छति पुरस्कारान् 
संयच्छतेऽपि छात्रवृत्तीश्च। 
लोके प्रतिभानां प्रकाशिका 
युवसु संस्कृतेश्च भावनीयम्।।2।। दिल्लीसंस्कृताकादमीयम्।। 

विद्वद्भ्यः सम्मानान् ददाति 
शिक्षकेभ्योऽपि मानं दत्ते। 
अनयायोज्यन्ते संगोष्ठीः 
लोके ज्ञानसंजीवनीयम्।।3।।  दिल्लीसंस्कृताकादमीयम्।।

एषायोजति च नाटकानि 
संवादान् कविसम्मेलनानि। 
छात्रेभ्यः संस्कृतकेन्द्राणि 
प्रतियोगितानां साधनीयम्।।4।।  दिल्लीसंस्कृताकादमीयम्।। 

प्रकाश्यन्तेऽनया पुस्तकानि 
त्रैमासिकी संस्कृतमंजरी 
बालेभ्यश्च संस्कृतचन्द्रिका 
संस्कृतसाहित्य-प्रणयिनीयम्।।5।।  दिल्लीसंस्कृताकादमीयम्।।

परिचर्चाणां समायोजिका 
समारोहाणां संचालिका 
सम्मेलनानां संयोजिका 
सुरभारती-संचारिणीयम् ।।6।। दिल्लीसंस्कृताकादमीयम्।।

मुख्यमन्त्री
Shri Arvind Kejriwal
नूतनाः वार्त्ताः
महत्त्वपूर्णाः सम्पर्काः
Last Updated : 25 Sep,2017